हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

   Sanatana Dharm సనాతన ధర్మం
  Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Yuddha Kanda Sarga 54 – युद्धकाण्ड चतुःपञ्चाशः सर्गः (५४)


॥ वज्रदंष्ट्रवधः ॥

बलस्य च निघातेन अङ्गदस्य जयेन च ।
राक्षसः क्रोधमाविष्टो वज्रदंष्ट्रो महाबलः ॥ १ ॥

स विस्फार्य धनुर्घोरं शक्राशनिसमस्वनम् ।
वानराणामनीकानि प्राकिरच्छरवृष्टिभिः ॥ २ ॥

राक्षसाश्चापि मुख्यास्ते रथेषु समवस्थिताः ।
नानाप्रहरणाः शूराः प्रायुध्यन्त तदा रणे ॥ ३ ॥

वानराणां तु शूरा ये सर्वे ते प्लवगर्षभाः ।
आयुध्यन्त शिलाहस्ताः समवेताः समन्ततः ॥ ४ ॥

तत्रायुधसहस्राणि तस्मिन्नायोधने भृशम् ।
राक्षसा कपिमुख्येषु पातयांश्चक्रिरे तदा ॥ ५ ॥

वानराश्चापि रक्षस्सु गिरीन्वृक्षान्महाशिलाः ।
प्रवीराः पातयामासुर्मत्तवारणसन्निभाः ॥ ६ ॥

शूराणां युध्यमानानां समरेष्वनिवर्तिनाम् ।
तद्राक्षसगणानां च सुयुद्धं समवर्तत ॥ ७ ॥

प्रभिन्नशिरसः केचिद्भिन्नैः पादैश्च बाहुभिः ।
शस्त्रैरर्पितदेहास्तु रुधिरेण समुक्षिताः ॥ ८ ॥

हरयो राक्षसाश्चैव शेरते गां समाश्रिताः ।
कङ्कगृध्रबलैराढ्या गोमायुगणसङ्कुलाः ॥ ९ ॥

कबन्धानि समुत्पेतुर्भीरूणां भीषणानि वै ।
भुजपाणिशिरश्छिन्नाश्छिन्नकायाश्च भूतले ॥ १० ॥

वानरा राक्षसाश्चापि निपेतुस्तत्र वै रणे ।
ततो वानरसैन्येन हन्यमानं निशाचरम् ॥ ११ ॥

प्राभज्यत बलं सर्वं वज्रदंष्ट्रस्य पश्यतः ।
राक्षसान्भयवित्रस्तान्हन्यमानान् प्लवङ्गमैः ॥ १२ ॥

दृष्ट्वा स रोषताम्राक्षो वज्रदंष्ट्रः प्रतापवान् ।
प्रविवेश धनुष्पाणिस्त्रासयन्हरिवाहिनीम् ॥ १३ ॥

शरैर्विदारयामास कङ्कपत्रैरजिह्मगैः ।
बिभेद वानरांस्तत्र सप्ताष्टौ नव पञ्च च ॥ १४ ॥

विव्याध परमक्रुद्धो वज्रदंष्ट्रः प्रतापवान् ।
त्रस्ताः सर्वे हरिगणाः शरैः सङ्कृत्तदेहिनः ॥ १५ ॥ [कन्धराः]

अङ्गदं सम्प्रधावन्ति प्रजापतिमिव प्रजाः ।
ततो हरिगणान्भग्नान्दृष्ट्वा वालिसुतस्तदा ॥ १६ ॥

क्रोधेन वज्रदंष्ट्रं तमुदीक्षन्तमुदैक्षत ।
वज्रदंष्ट्रोङ्गदश्चोभौ सङ्गतौ हरिराक्षसौ ॥ १७ ॥

चेरतुः परमक्रुद्धौ हरिमत्तगजाविव ।
ततः शरसहस्रेण वालिपुत्रं महाबलः ॥ १८ ॥

जघान मर्मदेशेषु मातङ्गमिव तोमरैः ।
रुधिरोक्षितसर्वाङ्गो वालिसूनुर्महाबलः ॥ १९ ॥

चिक्षेप वज्रदंष्ट्राय वृक्षं भीमपराक्रमः ।
दृष्ट्वा पतन्तं तं वृक्षमसम्भ्रान्तश्च राक्षसः ॥ २० ॥

चिच्छेद बहुधा सोऽपि निकृत्तः पतितो भुवि ।
तं दृष्ट्वा वज्रदंष्ट्रस्य विक्रमं प्लवगर्षभः ॥ २१ ॥

प्रगृह्य विपुलं शैलं चिक्षेप च ननाद च ।
समापतन्तं तं दृष्ट्वा रथादाप्लुत्य वीर्यवान् ॥ २२ ॥

गदापाणिरसम्भ्रान्तः पृथिव्यां समतिष्ठत ।
साङ्गदेन गदाऽऽक्षिप्ता गत्वा तु रणमूर्धनि ॥ २३ ॥

स चक्रकूबरं साश्वं प्रममाथ रथं तदा ।
ततोऽन्यं गिरिमाक्षिप्य विपुलं द्रुमभूषितम् ॥ २४ ॥

वज्रदंष्ट्रस्य शिरसि पातयामास सोङ्गदः ।
अभवच्छोणितोद्गारी वज्रदंष्ट्रः स मूर्छितः ॥ २५ ॥

मुहूर्तमभवन्मूढो गदामालिङ्ग्य निःश्वसन् ।
स लब्धसञ्ज्ञो गदया वालिपुत्रमवस्थितम् ॥ २६ ॥

जघान परमक्रुद्धो वक्षोदेशे निशाचरः ।
गदां त्यक्त्वा ततस्तत्र मुष्टियुद्धमवर्तत ॥ २७ ॥

अन्योन्यं जघ्नतुस्तत्र तावुभौ हरिराक्षसौ ।
रुधिरोद्गारिणौ तौ तु प्रहरैर्जनितश्रमौ ॥ २८ ॥

बभूवतुः सुविक्रान्तावङ्गारकबुधाविव ।
ततः परमतेजस्वी अङ्गदः कपिकुञ्जरः ॥ २९ ॥

उत्पाट्य वृक्षं स्थितवान्बहुपुष्पफलान्वितम् ।
जग्राह चार्षभं चर्म खड्गं च विपुलं शुभम् ॥ ३० ॥

किङ्किणीजालसञ्छन्नं चर्मणा च परिष्कृतम् ।
[* वज्रदंष्ट्रोऽथ जग्राह सोङ्गदोऽप्यसि चर्मणी । *]
विचित्रांश्चेरतुर्मार्गान्रुषितौ कपिराक्षसौ ॥ ३१ ॥

जघ्नतुश्च तदाऽन्योन्यं निर्दयं जयकाङ्क्षिणौ ।
व्रणैः सास्रैरशोभेतां पुष्पिताविव किंशुकौ ॥ ३२ ॥

युध्यमानौ परिश्रान्तौ जानुभ्यामवनीं गतौ ।
निमेषान्तरमात्रेण अङ्गदः कपिकुञ्जरः ॥ ३३ ॥

उदतिष्ठत दीप्ताक्षो दण्डाहत इवोरगः ।
निर्मलेन सुधौतेन खड्गेनास्य महच्छिरः ॥ ३४ ॥

जघान वज्रदंष्ट्रस्य वालिसूनुर्महाबलः ।
रुधिरोक्षितगात्रस्य बभूव पतितं द्विधा ॥ ३५ ॥

स रोषपरिवृत्ताक्षं शुभं खड्गहतं शिरः ।
वज्रदंष्ट्रं हतं दृष्ट्वा राक्षसा भयमोहिताः ॥ ३६ ॥

त्रस्ताः प्रत्यपतँल्लङ्कां वध्यमानाः प्लवङ्गमैः ।
विषण्णवदना दीना ह्रिया किञ्चिदवाङ्मुखाः ॥ ३७ ॥

निहत्य तं वज्रधरप्रभावः
स वालिसूनुः कपिसैन्यमध्ये ।
जगाम हर्षं महितो महाबलः
सहस्रनेत्रस्त्रिदशैरिवावृतः ॥ ३८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुःपञ्चाशः सर्गः ॥ ५४ ॥


www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.